||Sundarakanda ||

|| Sarga 43||( Only Slokas in Devanagari) )

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||

सुन्दरकांड.
अथ त्रिचत्वारिंशस्सर्गः

ततः स किंकरान् हत्वा हनुमाध्यानमास्थितः।
वनं भग्नं मया चैत्यप्रासादो न विनाशितः॥1||

स॥ ततः किंकरान् हत्वा हनुमान् ध्यानं अस्थितः । मया वनं भग्नं (कृता)।चैत्य प्रासादः न विनाशितः॥

Then having killed the Kinkaras, Hanuman stood and reflected. 'I have destroyed the grove. The Chaitya palace is not destroyed'.

तस्मात् प्रासादमप्येनं भीमं विध्वंशयाम्यहम्।
इति संचित्य मनसा हनुमान् दर्शयन् बलम्॥2||
चैत्यप्रासादमाप्लुत्य मेरुशृंग मिवोन्नतम्।
आरुरोह कपिश्रेष्ठो हनुमान् मारुतात्मजः॥3||

स॥ तस्मात् अहं एनं प्रासादं भीमं विध्वंशयामि । कपिश्रेष्ठः मारुतात्मजः हनुमान् मनसा इति संचित्य बलं दर्शयन् मेरुश्रुंगमिव उन्नतं चैत्य प्रासादमाप्लुत्य आरुरोह ॥

' So I am going to destroy this palace'. The best of Vanaras, the son of wind god having thus thought through in his mind, jumped on top of the Chaitya Palace which was like a Meru mountain peak, to show his strength.

आरुह्य गिरिसंकाशं प्रासादं हरियूथपः।
बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः॥4||
संप्रधृष्य च दुर्धर्षं चैत्यप्रासादमुत्तमम्।
हनुमान् प्रज्वलन् लक्ष्म्या पारियात्रोपमा भवेत्॥5||

स॥ हरि यूथपः गिरिसंकाशं प्रासादं आरुह्य महातेजाः सः प्रतिसूर्य इव उदितः॥हनुमान् दुर्धर्षं उत्तमम् छैत्यप्रासादं संप्रधृष्य प्रज्वलन् पारियात्रापमः अभवत् ॥

The Best of Vanaras climbed the palace of the size of a mountain and looked like another rising Sun. Then Hanuman having surrounded the impregnable fine palatial building glowed like the mountain Pariyatra.

स भूत्वा सु महाकायः प्रभावान् मारुतात्मजः।
धृष्टमास्फोटयामास लंकां शब्देन पूरयन्॥6||
तस्यास्फोटित शब्देन महता श्रोतघातिना।
पेतुर्विहंगमास्तत्र चैत्यपालाश्च मोहिताः॥7||

स॥ सः मारुतात्मजः प्रभावात् सुमहाकायः भूत्वा शब्देन लंकां पूरयन् अस्फोटयामास॥तस्य श्रोत्रघातिना महता अस्फोटित शब्देण तत्र विहंगमाः चैत्यपालाश्च मोहिताः||

The son of wind god assuming the form of a large body by his prowess, started patting himself making roaring noise heard all over Lanka. By this unbearable sound of roar, the birds and the guards of the Chaitya palace lost consciousness.

अस्त्र विज्जयतां रामो लक्ष्मणश्च महाबलः।
राजा जयति सुग्रीवो राघवेणाधिपालितः॥8||
दासोsहं कोसलेंद्रस्य रामस्य क्लिष्टकर्मणः।
हनुमान् शत्रुसैन्यानां निहंता मारुतात्मजः॥9||
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्।
शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः॥10||
अर्थयित्वा पुरीं लंकां अभिवाद्य च मैथिलीम्।
समृद्धार्थो गमिष्यामि मिषतां सर्व रक्षसाम्॥11||

स॥ अस्त्रवित् रामः जयतां । महाबलः लक्ष्मणः च । राघवेण अभिपालितः सुग्रीवः जयति॥शत्रुसैन्यानां निहंता मारुतात्मजः हनुमान् अहं अक्लिष्टकर्मणः कोसलेंद्रस्य रामस्य दासः॥सहस्रशः शिलाभिः पादपैश्च प्रहरतः मे युद्धे रावणसहस्रं प्रतिबलं तु न भवेत्॥ सर्वरक्षसां मिषतां लंकं पुरीं अर्दयित्वा मैथिलीम् अभिवाद्य च समृद्धार्धः गमिष्यामि॥

' Rama knowledgeable about all weapons will be victorious. So will be Lakshmana. Sugriva ruled by Rama too will be victorious. I am Hanuman killer of the enemy armies, a servant of Rama , the king of Kosala, who can accomplish most difficult tasks. Hurling rocks and trees in thousand ways in a battle even thousand Ravana's cannot match my might. While all the Rakshasas keep looking , having destroyed Lanka, offering obeisance to Maithili, I will return having accomplished my task'.

एवमुक्ता विमानस्थः चैत्यस्थान् हरियूथपः।
ननाद भीमनिर्ह्रादो रक्षसां जनयन् भयम्॥12||

स॥ हरियूथपः विमानस्थः चैत्यस्थान् एवं उक्त्वा भीम निर्ह्रादः राक्षसानां भयं जनयन् ननाद॥

Hanuman ,the best of Vanaras having said this roared, standing on top of the palace making terrifying sound, generating fear in the Rakshasas.

तेन शब्देन महता चैत्यपालाः शतं युयुः।
गृहीत्वा विविधान् अस्त्रान् प्रासान्खड्गान्परश्वथान्॥13||
विसृजंतो महाकाया मारुतिं पर्यवारयन्।

स॥ तेन शब्देन शतं चैत्यपालाः विविधान् अस्त्राण् प्रासान् खड्गान् परश्वथान् गृहीत्वा युयुः महाकायाः विशृजंतः मारुतिं पर्यवारयन्॥

Hearing that sound hundred guards of the Chaitya palace carrying different weapons like darts, swords, axes surrounded Maruti hurling the same at him.

ते गदाभिर्विचित्राभिः परिघैः कांचनांगदैः॥14||
अजघ्नुर्वानरश्रेष्ठं बाणैश्चादित्यसन्निभैः।
आवर्त इव गंगायाः तोयस्य विपुलो महान्॥15||
परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः।

स॥ ते विचित्राभिः गदाभिः कांचनांगदैः परिघैः आदित्य सन्निभैः बाणईश्च वानरश्रेष्ठं अजघ्नुः॥सः रक्षसां गणः हरिश्रेष्ठं परिक्षिप्य गंगायाः तोयस्य महान् विपुलः आवर्त इव बभौ॥

Holding wonderful maces decorated with gold, crowbars and arrows which are sharp like Sun's rays, they hit Hanuman. The hordes of Rakshasas having surrounded Hanuman looked like big whirlpool of river Ganges.

ततो वातात्मजः क्रुद्धो भीमं रूपं समास्थितः॥16||
प्रासादस्य महन्तस्य स्तंभं हेमपरिष्कृतम्।
उत्पाटयित्वा वेगेन हनुमान् पवनात्मजः॥17||
ततः तं भ्रामयामास शतधारं महाबलः।

स॥ ततः वातात्मजः कृद्धः भीमं रूपं समास्थितः महान् पवनात्मजः महाबलः हनुमान् तस्य प्रासादस्य हेमपरिष्कृतं स्तंभं उत्पाटयित्वा ततः शतधारं तं वेगेन भ्रामयामास॥

Then the mighty Hanuman, the angry son of wind god, assuming fearsome form uprooted a hundred edged pillar of the palace and whirled it around with great speed.

तत्र चाग्निस्समभवत् प्रासादश्चाप्यदह्यत॥18||
दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः।
स राक्षसशतं हत्वा वज्रेणेंद्र इवासुरान्॥19||
अंतरिक्षे स्थितः श्रीमान् इदं वचनमब्रवीत्।

स॥ ततः अग्निः च समभवत् प्रासादश्च अपि अधह्यत । ततः हरियुधपः दृष्ट्वा इंद्रः वज्रेण असुरान् इव राक्षस शतं हत्वा श्रीमान् अंतरिक्षे स्थितः इदं वचनं अब्रवीत्॥

Then fire got generated and the palace was burnt. Then the best of Vanaras killing hundred Rakshasas, looked like the Indra killing Asuras with his thunderbolt. He said these words standing in the air.

मादृशानां सहस्राणि विसृष्टानि महात्मनाम्॥20||
बलिनां वानरेंद्राणां सुग्रीववशवर्तिनाम्।
अटंति वसुधां कृत्स्नां वयमन्ये च वानराः॥21||

स॥महात्मनां बलिनां सुग्रीववशवर्तिनां मादृशानां वानरेंद्राणां सहस्राणि विश्रुष्टानि वयं अन्ये कृत्स्नां वसुधाम् अटंति॥

' Huge and mighty Vanaras like me, loyal to Sugriva, are dispatched in thousands. We and others are wandering around the earth ( in search of Sita)'.

दशनागबलाः केचित् केचित् दशगुणोत्तराः।
केचिन्नागसहस्रस्य बभूवुः तुल्यविक्रमाः॥22||
संति चौघबलाः केचित् केचिद्वायुबलोपमाः।
अप्रमेय बलाश्चान्ये तत्रासन् हरियूधपाः॥23||

स॥ केचित् दशनागबलाः केचित् दशगुणोत्तराः केचित् नागसहस्रस्य तुल्यविक्रमाः बभूवुः॥केचित् ओघबलाः सन्ति केचित् वायुबलोपमाः तत्र अन्ये हरियूथपाः अप्रमेय बलाश्च आसन् ||

'Some have strength of ten elephants, some have ten times more strength, some others have thousand elephants strength. Some have force of a flood, some have the strength of wind, and still others have immeasurable strength'.

ईदृग्विधैस्तु हरिभिर्वृतो दंतानखायुधैः।
शतैः शतसहस्रैश्च कोटीभिरयुतैरपि॥24||
आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः।

स॥ईदृग्विधैः दन्त अपितु नखायुधैः शतैः अयुतैः शतसहस्रैः कोटिभिः हरिभिः वृतः सुग्रीवः सर्वेषां निषूदनः आगमिष्यति ॥

'Surrounded with such warriors in their hundreds thousands and tens of thousands, who use their teeth and nails as weapons, Sugriva the killer of all of you is coming'.

नेयमस्ति पुरी लंका न यूयं न च रावणः।
यस्मादिक्ष्वाकु नाथेन बद्धं वैरं महात्मना॥25||

स॥ यस्मात् महात्मना इक्ष्वाकुनाथेन वैरं बद्धं इयं लंकापुरी नास्ति ।यूयं न। रावणः च न॥

'Because of having been bound with enmity of the lord of Ikshavakus, this city of Lanka will be no more. You will be no more. Ravana too will be no more'.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सन्दरकांडे त्रिचत्वारिंशस्सर्गः ॥

Thus ends Sarga forty three of Sundarakanda in Ramayana the very first poem composed in Sanskrit by the first poet sage Valmiki.

||om tat sat||